अमृतं मधुरं सम्यक् संस्कृतं हि ततोऽधिकम्।
देवभोग्यमिदं यस्माद् देवभाषेति कथ्यते॥
अमृतं मधुरं सम्यक् संस्कृतं हि ततोऽधिकम्।
देवभोग्यमिदं यस्माद् देवभाषेति कथ्यते॥
नहि कदापि भेतव्यं प्रत्यूहाद् विकटादपि !
बुद्धिर्यावन्नृणां स्वस्था प्रत्यवायो न विद्यते!!
…
अग्निः
प्रवर्ततां संस्कृतजाह्नवीयम्
डॉ. बनमाली बिश्वालः
वैज्ञानिकी दैवतभारती नः
प्रयुज्यते संगणकेऽद्य सम्यक्।…
संस्कृत-गीतानि, संस्कृत-नाटकानि, संस्कृत-साहित्यं, चर्चा:,संस्कृत-लेखनं, पठनं, तथा च यद् यद् वयं चिन्तयितुं शक्नुम: तत् तद् अत्र मिलित्वा कर्तुं शक्येत इति एव अस्माकं दृष्टि: अस्ति। सर्वेऽपि अस्य जालपुटस्य माध्यमेन सोत्साहं संस्कृत-संवर्धनाय कार्यरता: भविष्यन्ति इति विश्वासेन इदम् आह्नवानम्।
यस्याः प्रभावमतुलं भगवाननन्तो,
ब्रह्माहरश्च नहि वक्तुमलं बलञ्च।
सा चण्डिकाऽखिलजगत्परिपालनाय,
नाशाय चाशुभभयस्य मतिं करोतु॥
वस्तुतः कस्यापि राष्ट्रस्य उन्नतौ तच्छिक्षणव्यवस्थैव हेतुभूता भवति। उत्तमशिक्षणव्यवस्था शिक्षितादीक्षिताश्च तत्रत्या नागरिकाः…
वैदिककाले आसीत् या शिक्षणव्यवस्था तदपेक्षया आधुनिकीयं शिक्षणव्यवस्था उत्कृष्टेति वदन्ति अर्वाचीनपण्डिताः किन्तु मिथ्येदम्। यतो हि तस्मिन् काल्रे शिष्याणां गुरुं प्रति अनिर्वचनीया श्रद्धा तथा गुरूणां शिष्यान् प्रति आसीत् अतिशयप्रेम। उभावपि परस्परं सम्मिल्य शिक्षणव्यवस्थां सश्रद्धं सम्पादयत स्म।
वैदिकपरम्परा सुरक्षायै सर्वेऽपि प्राणपरेण यतमानाः आसन्। योग्यानां शिष्याणाम् एव यथोचिता नियुक्तिरासीत् गुरुकुलेषु। छलच्छद्महीनैः एभिः सरस्वती-समुपासकैः शिक्षणव्यवस्था आसीत् शिखरारूढा अत एव भारतं…
उद्देश्यम्
एषा पत्रिका उत्तरोत्तरं वृद्धिं गच्छेत् इति भगवतः सप्ताचलाधिपतेः श्रीश्रीवेङ्कटनायकस्य पवित्रचरणकमलतले सन्ततं प्रार्थये।
प्रो हरेकृष्णशतपथी, कुलपतिः, राष्ट्रीय संस्कृत विद्यापीठम् मानित विश्वविद्यालयः, तिरुपतिः-
जाह्नवी पत्रिका न केवलं सामान्यच्छात्राणां कृते परमोपादेया भविष्यति अपितु ये संस्कृतानुरागिणो वर्तन्ते तेषां समेषां कृते अवश्यमेव लाभप्रदो भवितुमर्हतीति मे मति…।
Prof Brajesha Kumar, Lucknow University