आलेखाः

उत्तमशिक्षणव्यवस्था

यस्याः प्रभावमतुलं भगवाननन्तो,

ब्रह्माहरश्च नहि वक्तुमलं बलञ्च।

सा चण्डिकाऽखिलजगत्परिपालनाय,

नाशाय चाशुभभयस्य मतिं करोतु॥

 

वस्तुतः कस्यापि राष्ट्रस्य उन्नतौ तच्छिक्षणव्यवस्थैव हेतुभूता भवति। उत्तमशिक्षणव्यवस्था शिक्षितादीक्षिताश्च तत्रत्या नागरिकाः तद्राष्ट्रोन्नतौ समर्थाः भवन्ति एषैव भारतीया व्यवस्था भारतं विश्वगुरुपदे प्रतिष्ठापयत्।

भारतीयशिक्षणसंस्थानेषु भवन्ति अद्यत्वे अनेकानि शोधपरककार्याणि तद्विषयमेवाधारीकृत्य जाह्नवी अनवरतं प्रकटयति विदुषां तत्र भवतां पुरस्तात् स्वविचारान्। अद्यतनकाले संस्कृतविषयमधिकृत्य शोधनिबन्धाः प्रकाशपथमायान्ति तेषु गुणवत्ता स्थितेः मूल्यांकनमस्माभिः कर्तव्यमेव। संस्कृतजगति पुरातनविषयमेवादाय प्रायः शोधकार्याणि भवन्ति। नवीनविषया प्रायः गौणीभूताः भवन्ति एतस्य कारणमिदमेव यत् प्रायः आधुनिक कवीनां विदुषां लक्षणग्रन्थकाराणां वा पुरातनविषयस्य एव पिष्टपेषणं नूतनशैल्या शब्दान्तरैर्वा भवन्ति।

संस्कृतसाहित्यस्य नाट्यशोधपरम्परा श्रमसाध्याऽस्ति। तत्राध्ययनाध्यापनव्यवस्था प्रायः विलुप्तैव। अतः तस्मिन् विषये अस्माभिः ध्यानावस्थितैः भाव्यम्। प्रेक्षागृहाणां निर्माणं, प्रेक्षागृहभेदाः, कस्मिन् स्थाने कीदृशं प्रेक्षागृहं स्यात् इत्यादि सर्वेऽमी अनुसन्धेयविषया अस्माभिर्द्रष्टव्या।

E-mail me when people leave their comments –

You need to be a member of संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha) to add comments!

Join संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha)