आलेखाः

शिक्षणव्यवस्था

वैदिककाले आसीत् या शिक्षणव्यवस्था तदपेक्षया आधुनिकीयं शिक्षणव्यवस्था उत्कृष्टेति वदन्ति अर्वाचीनपण्डिताः किन्तु मिथ्येदम्। यतो हि तस्मिन् काल्रे शिष्याणां गुरुं प्रति अनिर्वचनीया श्रद्धा तथा गुरूणां शिष्यान् प्रति आसीत् अतिशयप्रेम। उभावपि परस्परं सम्मिल्य शिक्षणव्यवस्थां सश्रद्धं सम्पादयत स्म।

वैदिकपरम्परा सुरक्षायै सर्वेऽपि प्राणपरेण यतमानाः आसन्। योग्यानां शिष्याणाम् एव यथोचिता नियुक्तिरासीत् गुरुकुलेषु। छलच्छद्महीनैः एभिः सरस्वती-समुपासकैः शिक्षणव्यवस्था आसीत् शिखरारूढा अत एव भारतं विश्वगुरुपदमलंकरोति स्म।

अद्य नियुक्तिप्रक्रियायां सम्बन्धविशेषस्य द्श्यते विशेष्यता। सम्बन्धसामान्यं विशेषणं भवति अतः ज्ञानसम्बन्धापेक्षया यत्र सम्बन्धमात्रस्योत्कृष्टता भवति तादृशे आधुनिकेऽस्मिन् काले कथं शिक्षणव्यवस्था उत्कृष्टेति मनः शङ्कापङ्कावलेपलेपितमस्ति। अतः तां शिखरारूढां वैदिकपरम्परां पुनरवाप्तुं यतमानैः सा जाह्नवी पत्रिका तत्र भवतां भवतां पुरस्तात् समुपस्थाप्य अमन्दमानन्दमनुभवामि यत्र ज्ञानसम्बन्ध एव भवति विशेषः।

गलेभुजगसन्ततिः शिरशि यस्य बालोधु
र्विभाति वरमस्तके सुरधुनी प्रवाहो महान्।
अशेषफलदायकः श्रुतिनुतः कुमारप्रियो
ददातु मम वाञ्छितं फलमुदारचित्तः शिवः॥

E-mail me when people leave their comments –

You need to be a member of संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha) to add comments!

Join संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha)