आलेखाः

प्रवर्त्ततां संस्कृतजाह्नवीयम्॥

प्रवर्ततां संस्कृतजाह्नवीयम्

डॉ. बनमाली बिश्वालः

वैज्ञानिकी दैवतभारती नः

प्रयुज्यते संगणकेद्य सम्यक्।

देशेस्मदीयेथ च विश्वमध्ये

प्रवर्त्ततां संस्कृतजाह्नवीयम्॥

 

भाषामिमां संस्कृतिसारभूतां

प्रवर्द्धनाय प्रणमामि वाणीम्।

अम्बे ! मदिच्छां चरितार्थयित्वा

प्रवर्त्त्यतां संस्कृतजाह्नवीयम्॥

 

संसेवितुं संस्कृतभारतीं तां

भवन्तु सज्जाः सुरभारतीज्ञाः।

नित्यं यथा संस्कृतरक्षणं स्यात्

प्रवर्त्त्यतां संस्कृतजाह्नवीयम्॥

 

विद्याप्रबुद्धानथशोधकर्तॄन्

स्वनामधन्यानपि शास्त्रवेतॄन्।

प्राध्यापकांश्च प्रतिवेदयामः

प्रवर्त्त्यतां संस्कृतजाह्नवीयम्॥

 

मेघाप्लुतश्रावणपूर्णिमायां

संपाल्यते तत् शुभसंस्कृताहः !

वर्षासहस्रञ्च शरद्वसन्तं

प्रवर्त्ततां संस्कृतजाह्नवीयम्॥

 

वन्देत्र पुष्पाञ्जलिबद्धहस्तः

चिरं शतं जीवतु संस्कृतं नः।

भावैर्महद्भिः सह चास्मदीयैः

प्रवर्त्ततां संस्कृतजाह्नवीयम्॥

 

श्रद्धास्तु नो वैदिकभारतीषु

कुतोस्ति लाभः बहुभाषणेन ?

शास्त्रीयतत्त्वैः सततं गभीरा

प्रवर्त्त्यतां संस्कृतजाह्नवीयम्॥

 

 

बन्दे कवीन् संस्कृतवाणिपुत्रान्

श्रीकालिदासान् भवभूतिमाघान्।

संप्रार्थये शास्त्रचयप्रवृर्त्तॄन्।

प्रवर्त्त्यतां संस्कृतजाह्नवीयम्॥

 

रक्षा यथा स्याद् वरसंस्कृतेर्नः

यथा सुरक्षास्तु च देववाण्याः।

शास्त्रस्य रक्षामपि संविधातुं

प्रवर्त्ततां संस्कृतजाह्नवीयम्॥

 

वागेव सा संस्कृतसंस्कृता या

सुधीरसौ संस्कृतपूतजिह्वः।

तस्मात् सखे ! प्रार्थय विश्वनाथं

प्रवर्त्ततां संस्कृतजाह्नवीयम्॥

 

 

राष्ट्रिय-संस्कृत-संस्थानम्

गङ्गानाथ-झा-परिसरः

चन्द्रशेखर-आजादोद्यानम्

प्रयागः  211002

उत्तरप्रदेशः

E-mail me when people leave their comments –

You need to be a member of संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha) to add comments!

Join संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha)