आलेखाः

 

नहि कदापि भेतव्यं प्रत्यूहाद् विकटादपि !

बुद्धिर्यावन्नृणां स्वस्था प्रत्यवायो न विद्यते!!

 

"महता वेगेन शतश: योजनानि प्रवसामि, प्रवसोऽपि च मम आनन्ददायक: भवतु" इति विचिन्त्य मानवेन कारयानानि निर्मितानि। वातानुकूलिते नितरां च सुखदायके याने उपविश्य इदनीं विश्वे सर्व-मानवा: यत्रां कुर्वन्ति इति वयं जानीम एव। शतश: निगमा: विविध-अपेक्षा: तोषयितुं सहस्रधा कारयानानि निर्मान्ति।

 

एतावता एव इन्धनस्य न्यूनता, प्रदूषणात् च वैश्विक-तापमानस्य वर्धनम् इत्यादय: समस्या: उद्भूता:। प्रकृत्या आह्वानं कृतम्- "रे मानव! आसां समस्यानां समाधानं चेत् कर्तुं शक्नोषि तदा कामं एतै: सुखदायकै: यानै: प्रवासं कुरु, नो चेत् पुन: अश्वारूढो रथारूढो वा भव" इति।

 

मनवो॓ऽपि वदति, "समस्याभ्य: न भीतोऽहं यावद् एषा मम बुद्धि: मयि अनुग्रहवती अस्ति" इति। मानवेन इदनीं इन्धन-निरपेक्षानि वायु-सञ्चालितानि यानानि निर्मितानि सन्ति!!

 

पूर्वतन-फ़ार्म्यूला-वन-अभियन्त्रा गाय-नेग्रे-महोदयेन एतादृशं यानं प्रकल्पितम् अस्ति। टाटा-मोटर्स-द्वारा मिनि-केट्-नामकम् एतादृशं यानं शीघ्रमेव भरते विक्रयणार्थम् उत्पादयिष्यते इति श्रूयते। केवलं सार्ध-त्रिलक्ष-रुप्यकै: प्राप्स्यमाणम् एतद् यानं ५०रुप्यकात्मकेन संकोचित-वायुना पूरित: सन् १००कि.मि चलिष्यति। चलनसमये यानेन निष्कास्यमान: शुद्ध: वयु: इयान् शीतल: भविष्यति, यत् तस्य उपयोग: शीतक: इव कर्तुं शक्ष्यते।

 

पुनरपि मानव: प्रकृतिम् उवाच- "अयि प्रकृते! एषा समस्या तु सुष्ठु समाहिता.... इतोऽपि समस्या: प्रेष्यताम्। ताभि: मम विकास: एव भवति!!"

 

 इति शिवम्।

 

Dipesh

E-mail me when people leave their comments –

You need to be a member of संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha) to add comments!

Join संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha)