प्रवर्ततां संस्कृतजाह्नवीयम्
डॉ. बनमाली बिश्वालः
वैज्ञानिकी दैवतभारती नः
प्रयुज्यते संगणकेऽद्य सम्यक्।
देशेऽस्मदीयेऽथ च विश्वमध्ये
प्रवर्त्ततां संस्कृतजाह्नवीयम्॥
भाषामिमां संस्कृतिसारभूतां
प्रवर्द्धनाय प्रणमामि वाणीम्।
अम्बे ! मदिच्छां चरितार्थयित्वा
प्रवर्त्त्यतां संस्कृतजाह्नवीयम्॥
संसेवितुं संस्कृतभारतीं तां
भवन्तु सज्जाः सुरभारतीज्ञाः।
नित्यं यथा संस्कृतरक्षणं स्यात्
प्रवर्त्त्यतां संस्कृतजाह्नवीयम्॥
विद्याप्रबुद्धानथशोधकर्तॄन्
स्वनामधन्यानपि शास्त्रवेतॄन्।
प्राध्यापकांश्च प्रतिवेदयामः
प्रवर्त्त्यतां संस्कृतजाह्नवीयम्॥
मेघाप्लुतश्रावणपूर्णिमायां
संपाल्यते तत् शुभसंस्कृताहः !
वर्षासहस्रञ्च शरद्वसन्तं
प्रवर्त्ततां संस्कृतजाह्नवीयम्॥
वन्देऽत्र पुष्पाञ्जलिबद्धहस्तः
चिरं शतं जीवतु संस्कृतं नः।
भावैर्महद्भिः सह चास्मदीयैः
प्रवर्त्ततां संस्कृतजाह्नवीयम्॥
श्रद्धाऽस्तु नो वैदिकभारतीषु
कुतोऽस्ति लाभः बहुभाषणेन ?
शास्त्रीयतत्त्वैः सततं गभीरा
प्रवर्त्त्यतां संस्कृतजाह्नवीयम्॥
बन्दे कवीन् संस्कृतवाणिपुत्रान्
श्रीकालिदासान् भवभूतिमाघान्।
संप्रार्थये शास्त्रचयप्रवृर्त्तॄन्।
प्रवर्त्त्यतां संस्कृतजाह्नवीयम्॥
रक्षा यथा स्याद् वरसंस्कृतेर्नः
यथा सुरक्षाऽस्तु च देववाण्याः।
शास्त्रस्य रक्षामपि संविधातुं
प्रवर्त्ततां संस्कृतजाह्नवीयम्॥
वागेव सा संस्कृतसंस्कृता या
सुधीरसौ संस्कृतपूतजिह्वः।
तस्मात् सखे ! प्रार्थय विश्वनाथं
प्रवर्त्ततां संस्कृतजाह्नवीयम्॥
राष्ट्रिय-संस्कृत-संस्थानम्
गङ्गानाथ-झा-परिसरः
चन्द्रशेखर-आजादोद्यानम्
प्रयागः – 211002
उत्तरप्रदेशः
Comments