आलेखाः

संस्कृतकाव्यसंकलनम्.


संस्कृतकाव्यधारा अजस्रं प्रवहन्ती प्रकटयती स्वकीयां कामपि अपूर्वां विक्षिप्तिं साम्प्रतिके युगे। आधुनिक संस्कृतकाव्यलतिकेयं केषां रसज्ञानां मनो नापहरति।कविर्मनीषी परिभूः स्वयम्भूः इति सुप्रसिद्धकथनं संस्कृतकवितायां पदे-पदे प्रतिष्ठापितं भवति नवनवोन्मेषशालिनी संस्कृतकविता। समाजे राष्ट्रे संसारे यत्र कुत्रापि या घटना घट्यते सा संस्कृतकवितायां निश्चयेन प्रतिफल्यते इति संस्कृतकवितायाः अद्भुतं वैशिष्ट्यम्। संस्कृतकवितायाः क्षेत्रं विशालं, पुरातनी वा स्यात् आधुनिकी वास्यात्। सर्वाः संस्कृतकविताः एकत्र सहजतया प्राप्तुं शक्येत इति धिया संस्कृतकाव्यसङ्कलनम् इति कश्चन अभिनवः प्रयासः अस्माभिः प्रकटितः। भवतां समेषां संस्कृतानुरागिणामत्र हार्दं स्वागतम्। 

E-mail me when people leave their comments –

You need to be a member of संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha) to add comments!

Join संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha)