आलेखाः

आलेखाः

आलेखाः

इयं जाह्नवी नाम ज्ञानगङ्गा त्रिपथगा इव संस्कृताभिमानिनां कर्णेषु प्रवहतु । संस्कृतं गङ्गेति प्रत्यक्षमुपायनद्वयं देवलोकात् भूमेः कृते । उभयमपि भुक्तिमुक्तिदं पापनाशकम् । संस्कृतशब्दानां अर्थानाञ्च संबन्धः औत्सर्गिकः । गङ्गायां पापनाशकत्वशक्तिरपि औत्सर्गिकी । अन्यनदीनां मध्ये गङ्गायाः स्थानं यथा तथैव अन्यभाषाणां मध्ये संस्कृतस्य च । सोऽयं सन्देशः विश्वगुरुश्रीमध्वाचार्याणाम् अङ्गुलिद्वयसन्देश इवाऽऽभाति । अस्तु अन्यत् सर्वमप्रत्यक्षम् । प्रत्यक्षं गङ्गाद्वयं स्वीकुर्मः । बिहारतः प्रवहमाणे अस्मिन् गङ्गाद्वये सर्वे संस्कृतज्ञाः विहरन्तु । जाह्नवी जगद्व्यापिनी भूयात् ।--- श्रीश्रीसुगुणेन्द्रतीर्थश्रीपादाः, उडुपि श्रीपुत्तिगे मठम्, जगद्गुरु-श्रीमध्वाचार्य-मूलमहासंस्थानम्, उडुपि, कर्णाटकम्

E-mail me when people leave their comments –

You need to be a member of संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha) to add comments!

Join संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha)